Posts

सन्तप्तायसि संस्थितस्य पयसो...। सुभाषितम्।। Samskritiyam।

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते* प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो जायते।।  (नीतिशतकम्) * पाठभेदाः सन्ति।

शब्दादिभिः पञ्चभिरेव पञ्च...। सुभाषितम्।। Samskritiyam।

शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीन - भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ (७६॥ विवेकचूडामणिः)

Positive Quotes in Sanskrit | Samskritiyam ||

।। सूक्तयः।। जिह्वा मे मधुमत्तमा।। (तैत्तिरीयोपनिषत् १.४.१) ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।। (ईशावास्योपनिषत् १.१.)

निन्दन्तु नीतिनिपुणा...। सुभाषितम्।। Subhashitam। Samskritiyam।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु  लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगान्तरे वा  न्यायात्पथः प्रविचलन्ति पदं न धीराः।। (भर्तृहरेः नीतिशतकम्।)

लिङ्गाष्टकम् | Lingashtakam Lyrics | Samskritiyam

।। लिङ्गाष्टकम् ।। Lingashtakam Lyrics | Lingashtakam - In sanskrit ।। लिङ्गाष्टकम्  ।। ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् । रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् । सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥ कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् । दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥ कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् । सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥ देवगणार्चितसेवितलिङ्गं भक्त्या भावसु भावित च लिङ्गम् । दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥ अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् । अष्टदरिद्रविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥ सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् । परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥ लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह...

गरुडगमन तव । Garuda Gamana Tava - Sri Bharati Tirtha Mahaswamiji

गरुडगमन तव चरणकमलमिह ... Garuda Gamana Tava - Sri Bharati Tirtha Mahaswamiji गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम् मनसि लसतु मम नित्यम् ।। मम तापमपाकुरु देव मम पापमपाकुरु देव ।। 1।। जलजनयन विधिनमुचिहरणमुख विबुधविनुत-पदपद्म विबुधविनुत-पदपद्म ।। मम तापमपाकुरु देव मम पापमपाकुरु देव ।। 2।। भुजगशयन भव मदनजनक मम जननमरण-भयहारी जननमरण-भयहारी ।। मम तापमपाकुरु देव मम पापमपाकुरु देव।। 3।। शङ्खचक्रधर दुष्टदैत्यहर सर्वलोक-शरण सर्वलोक-शरण ।। मम तापमपाकुरु देव मम पापमपाकुरु देव ।। 4।। अगणित-गुणगण अशरणशरणद विदलित-सुररिपुजाल विदलित-सुररिपुजाल ।। मम तापमपाकुरु देव मम पापमपाकुरु देव।। 5।। भक्तवर्यमिह भूरिकरुणया पाहि भारतीतीर्थम् पाहि भारतीतीर्थम् ।। मम तापमपाकुरु देव मम पापमपाकुरु देव।। 6।।

सुभाषितानि।। सज्जनमैत्री | परोपकारः| शीलम् | विद्या |

।।श्री गुरुभ्यो नमः।। सुभाषितानि। किं कर्त्तव्यं किमकर्त्तव्यमिति सन्देहे अस्मान् सुपन्थानं नेतुं मार्गदर्शकानि भवन्ति सुभाषितानि। सुष्ठु भाषितम्, तानि सुभाषितानि। सूरिभिः कथिताः सुवचनयुक्ताः श्लोकाः ‘ सुभाषित ’ शब्देन सूच्यते। सुभाषितानां महिमा कीदृशमिति अवगन्तुं निम्नलिखितसुभाषितमेकं पश्यामः- नायं प्रयाति विकृतिं विरसो न यस्स्यात् न क्षीयते बहुजनैर्नितरां निपीतः। जाड्यं निहन्ति रुचिमेति करोति तृप्तिम् नूनं सुभाषितरसो ऽ न्यरसातिशायी।। अन्वयः- अयं सुभाषितरसः विकृतिं न प्रयाति, विरसः न स्यात्, बहुजनैः नितरां निपीतः (अपि) न क्षीयते, जाड्यं निहन्ति, रुचिम् एति, तृप्तिं करोति। (अतः) नूनम् अन्यरसातिशायी।। सारः- रसः इत्युक्ते द्रवः अथवा पेयम् ( drink ) इति। अत्र सुभाषितं नाम अद्भुतं पेयं आविष्कृतवान् रचनाकारः इत्याशयः। तादृशः सुभाषितपेयम् आकारपरिणामः यथा जलस्य तथा विकारः न प्राप्नोति। अन्ये द्राक्षारसादयः प्रतिदिनं प्रतिदिनं पिबामः चेत् रसहीनः भवति। किन्तु अयं सुभाषितरसः प्रतिदिनं सेव्यते चेदपि तु कदापि रसहीनः न स्यात्। यथा अन्यः रसः बहुजनैः रुच्यते चेत् तस्य क्षीणः भवति। किन्तु अयं सुभाषित...