सुभाषितानि।। सज्जनमैत्री | परोपकारः| शीलम् | विद्या |

।।श्री गुरुभ्यो नमः।।

सुभाषितानि।

किं कर्त्तव्यं किमकर्त्तव्यमिति सन्देहे अस्मान् सुपन्थानं नेतुं मार्गदर्शकानि भवन्ति सुभाषितानि। सुष्ठु भाषितम्, तानि सुभाषितानि। सूरिभिः कथिताः सुवचनयुक्ताः श्लोकाः सुभाषित शब्देन सूच्यते। सुभाषितानां महिमा कीदृशमिति अवगन्तुं निम्नलिखितसुभाषितमेकं पश्यामः-

नायं प्रयाति विकृतिं विरसो न यस्स्यात्

न क्षीयते बहुजनैर्नितरां निपीतः।

जाड्यं निहन्ति रुचिमेति करोति तृप्तिम्

नूनं सुभाषितरसोन्यरसातिशायी।।

अन्वयः- अयं सुभाषितरसः विकृतिं न प्रयाति, विरसः न स्यात्, बहुजनैः नितरां निपीतः (अपि) न क्षीयते, जाड्यं निहन्ति, रुचिम् एति, तृप्तिं करोति। (अतः) नूनम् अन्यरसातिशायी।।

सारः- रसः इत्युक्ते द्रवः अथवा पेयम् (drink) इति। अत्र सुभाषितं नाम अद्भुतं पेयं आविष्कृतवान् रचनाकारः इत्याशयः। तादृशः सुभाषितपेयम् आकारपरिणामः यथा जलस्य तथा विकारः न प्राप्नोति। अन्ये द्राक्षारसादयः प्रतिदिनं प्रतिदिनं पिबामः चेत् रसहीनः भवति। किन्तु अयं सुभाषितरसः प्रतिदिनं सेव्यते चेदपि तु कदापि रसहीनः न स्यात्। यथा अन्यः रसः बहुजनैः रुच्यते चेत् तस्य क्षीणः भवति। किन्तु अयं सुभाषितरसः बहुजनैः निरन्तरं युगपत् आस्वाद्यते चेदपि स्वादस्य व्यत्ययः न भवति। सुभाषितरसस्य परिमाणे क्षीणः अपि नास्ति। अयं सुभाषितरसः बुद्धेः आलस्यम् अथवा मूर्खत्वं दूरीकरोति। रुचिं वर्धयति। मनः सन्तेषः भवति। अतः सुभाषितरसः अन्यरसेभ्यः उत्कृष्टः।

अथ सुभाषितानि पठामः।

अत्र सज्जनमैत्री, परोपकारः, शीलम् , विद्या एतान् प्रस्तुतविषयानधिकृत्य कानिचन सुभाषितानि पश्यामः।

सज्जनमोत्री।

1.    महाजनस्य संसर्गः कस्य नोन्नतिकारकः।

     पद्मपत्रस्थितं वारि धत्ते मुक्ताफलाश्रयम्।।  

2.   गुणवद्वस्तुसंसर्ग्द्याति स्वल्पोपि गौरवम्।

     पुष्पमालानुपङ्गेण सूत्रं शिरसि धार्यते।।  

3.   जाड्यं धियो हरति सिञ्चति वाचि सत्यम्

     मानोन्नतिं दिशति पापमपाकरोति।

  चेतः प्रसादयति दिक्षु तनोति कीर्त्तिम्

     सत्सङ्गतिः कथय किं न करोति पुंसाम्।। 

4.   पापान्निवारयति योजयते हिताय

      गुह्यं निगूहयति गुणान् प्रकटीकरोति।

  आपद्गतं च न जहाति ददाति काले

      सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

परोपकारः।

1.  श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।

  विभाति कायः करुणापराणां परोपकारेण न चन्दनेन।। 

2.  छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।

  फलन्त्यपि परार्थाय वृक्षाः सत्पुरुषा इव।।   

3.  वहन्ति नद्यः स्वयमेव वृष्टिः

   खादन्ति न स्वादुफलानि वृक्षाः।

 पयोधरेण प्ररुहन्ति सस्याः

   परोपकाराय भवन्ति सन्तः।। 

4.  पिबन्ति नद्यः स्वयमेव नाम्भः

    स्वयं न खादन्ति फलानि वृक्षाः।

  नादन्ति सस्यं खलु वारिवाहाः

     परोपकाराय सदा विभूदयः।।

शीलम्।

1.    अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।

      चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम्।। 

2.   शीलं प्रधानं पुरुषे तद्यस्येह विनश्यति।

      न तस्य जीवितेनार्थः न कुशलेन न बन्धुभिः।। 

3.   वृत्तं यत्नेन संरक्षेत् वित्तमेति च याति च।

      अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।। 

4.   विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।

      परलोके धनं धर्मः शीलं सर्वत्र वै धनम्।।

विद्या

1.    न चोरहार्यं न च राजकार्यम्

     न भ्रातृभाज्यं न च भारकारी।

   व्यये कृते वर्धत एव नित्यम्

     विद्याधनं सर्वधनात् प्रधानम्।। 

2.   दिवा पश्यति नोलूकः काको नक्तं न पश्यति।

     विद्याविहीनो मूढस्तु दिवा नक्तं न पश्यति।। 

3.   विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्

      विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।

   विद्या बन्धुजनो विदेशगमने विद्या परा देवता

      विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः।।

Comments

Popular posts from this blog

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ...

उपदेशसारम् | Upadeshasaram

शब्दादिभिः पञ्चभिरेव पञ्च...। सुभाषितम्।। Samskritiyam।