शब्दादिभिः पञ्चभिरेव पञ्च...। सुभाषितम्।। Samskritiyam। Get link Facebook X Pinterest Email Other Apps March 21, 2023 शब्दादिभिः पञ्चभिरेव पञ्चपञ्चत्वमापुः स्वगुणेन बद्धाः ।कुरङ्गमातङ्गपतङ्गमीन -भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ (७६॥ विवेकचूडामणिः) Get link Facebook X Pinterest Email Other Apps Comments
सुभाषितानि।। सज्जनमैत्री | परोपकारः| शीलम् | विद्या | March 10, 2022 ।।श्री गुरुभ्यो नमः।। सुभाषितानि। किं कर्त्तव्यं किमकर्त्तव्यमिति सन्देहे अस्मान् सुपन्थानं नेतुं मार्गदर्शकानि भवन्ति सुभाषितानि। सुष्ठु भाषितम्, तानि सुभाषितानि। सूरिभिः कथिताः सुवचनयुक्ताः श्लोकाः ‘ सुभाषित ’ शब्देन सूच्यते। सुभाषितानां महिमा कीदृशमिति अवगन्तुं निम्नलिखितसुभाषितमेकं पश्यामः- नायं प्रयाति विकृतिं विरसो न यस्स्यात् न क्षीयते बहुजनैर्नितरां निपीतः। जाड्यं निहन्ति रुचिमेति करोति तृप्तिम् नूनं सुभाषितरसो ऽ न्यरसातिशायी।। अन्वयः- अयं सुभाषितरसः विकृतिं न प्रयाति, विरसः न स्यात्, बहुजनैः नितरां निपीतः (अपि) न क्षीयते, जाड्यं निहन्ति, रुचिम् एति, तृप्तिं करोति। (अतः) नूनम् अन्यरसातिशायी।। सारः- रसः इत्युक्ते द्रवः अथवा पेयम् ( drink ) इति। अत्र सुभाषितं नाम अद्भुतं पेयं आविष्कृतवान् रचनाकारः इत्याशयः। तादृशः सुभाषितपेयम् आकारपरिणामः यथा जलस्य तथा विकारः न प्राप्नोति। अन्ये द्राक्षारसादयः प्रतिदिनं प्रतिदिनं पिबामः चेत् रसहीनः भवति। किन्तु अयं सुभाषितरसः प्रतिदिनं सेव्यते चेदपि तु कदापि रसहीनः न स्यात्। यथा अन्यः रसः बहुजनैः रुच्यते चेत् तस्य क्षीणः भवति। किन्तु अयं सुभाषित... Read more
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ... February 15, 2022 शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।। Read more
उपदेशसारम् | Upadeshasaram February 16, 2022 ।। श्री रमण महर्षिणः ।। ।। उपदेशसारम् ।। कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ 1 ॥ कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ 2 ॥ ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्तिसाधकम् ॥ 3 ॥ कायवाङ्मनः कार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ 4 ॥ जगत ईशधी युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ 5 ॥ उत्तमस्तवादुच्चमन्दतः । चित्तजं जपध्यानमुत्तमम् ॥ 6 ॥ आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ 7 ॥ भेदभावनात् सोऽहमित्यसौ । भावनाऽभिदा पावनी मता ॥ 8 ॥ भावशून्यसद्भावसुस्थितिः । भावनाबलाद्भक्तिरुत्तमा ॥ 9 ॥ हृत्स्थले मनः स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ 10 ॥ वायुरोधनाल्लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ 11 ॥ चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ 12 ॥ लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ 13 ॥ प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ 14 ॥ नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ 15 ॥ दृश्यवारितं चित्तमात्मनः । चित्त्वदर्शनं तत्त्वदर्शनम् ॥ 16 ॥ मानसं तु किं... Read more
Comments
Post a Comment