सुभाषितानि।। सज्जनमैत्री | परोपकारः| शीलम् | विद्या |
।।श्री गुरुभ्यो नमः।। सुभाषितानि। किं कर्त्तव्यं किमकर्त्तव्यमिति सन्देहे अस्मान् सुपन्थानं नेतुं मार्गदर्शकानि भवन्ति सुभाषितानि। सुष्ठु भाषितम्, तानि सुभाषितानि। सूरिभिः कथिताः सुवचनयुक्ताः श्लोकाः ‘ सुभाषित ’ शब्देन सूच्यते। सुभाषितानां महिमा कीदृशमिति अवगन्तुं निम्नलिखितसुभाषितमेकं पश्यामः- नायं प्रयाति विकृतिं विरसो न यस्स्यात् न क्षीयते बहुजनैर्नितरां निपीतः। जाड्यं निहन्ति रुचिमेति करोति तृप्तिम् नूनं सुभाषितरसो ऽ न्यरसातिशायी।। अन्वयः- अयं सुभाषितरसः विकृतिं न प्रयाति, विरसः न स्यात्, बहुजनैः नितरां निपीतः (अपि) न क्षीयते, जाड्यं निहन्ति, रुचिम् एति, तृप्तिं करोति। (अतः) नूनम् अन्यरसातिशायी।। सारः- रसः इत्युक्ते द्रवः अथवा पेयम् ( drink ) इति। अत्र सुभाषितं नाम अद्भुतं पेयं आविष्कृतवान् रचनाकारः इत्याशयः। तादृशः सुभाषितपेयम् आकारपरिणामः यथा जलस्य तथा विकारः न प्राप्नोति। अन्ये द्राक्षारसादयः प्रतिदिनं प्रतिदिनं पिबामः चेत् रसहीनः भवति। किन्तु अयं सुभाषितरसः प्रतिदिनं सेव्यते चेदपि तु कदापि रसहीनः न स्यात्। यथा अन्यः रसः बहुजनैः रुच्यते चेत् तस्य क्षीणः भवति। किन्तु अयं सुभाषित...