Posts

उपदेशसारम् | Upadeshasaram

।। श्री रमण महर्षिणः ।। ।। उपदेशसारम्  ।। कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ 1 ॥ कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ 2 ॥ ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्तिसाधकम् ॥ 3 ॥ कायवाङ्मनः कार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ 4 ॥ जगत ईशधी युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ 5 ॥ उत्तमस्तवादुच्चमन्दतः । चित्तजं जपध्यानमुत्तमम् ॥ 6 ॥ आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ 7 ॥ भेदभावनात् सोऽहमित्यसौ । भावनाऽभिदा पावनी मता ॥ 8 ॥ भावशून्यसद्भावसुस्थितिः । भावनाबलाद्भक्तिरुत्तमा ॥ 9 ॥ हृत्स्थले मनः स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ 10 ॥ वायुरोधनाल्लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ 11 ॥ चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ 12 ॥ लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ 13 ॥ प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ 14 ॥ नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ 15 ॥ दृश्यवारितं चित्तमात्मनः । चित्त्वदर्शनं तत्त्वदर्शनम् ॥ 16 ॥ मानसं तु किं...

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ...

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्  वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।