Posts

Showing posts from March, 2023

सन्तप्तायसि संस्थितस्य पयसो...। सुभाषितम्।। Samskritiyam।

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते* प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो जायते।।  (नीतिशतकम्) * पाठभेदाः सन्ति।

शब्दादिभिः पञ्चभिरेव पञ्च...। सुभाषितम्।। Samskritiyam।

शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीन - भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ (७६॥ विवेकचूडामणिः)